गुरु अष्टकम 

शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरुतुल्यम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं? ततः किं? ततः किं? ततः किम्॥ १॥

कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं? ततः किं? ततः किं? ततः किम्॥ २॥

षडङ्गादि वेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं? ततः किं? ततः किं? ततः किम्॥ ३॥

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं? ततः किं? ततः किं? ततः किम्॥ ४॥

क्षमामण्डले भूभुपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं? ततः किं? ततः किं? ततः किम्॥ ५॥

यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रसादात्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं? ततः किं? ततः किं? ततः किम्॥ ६॥

न भोगे न योगे न वा बाजिराजौ
न कान्तामुखे नैव वित्तेषु चित्तम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं? ततः किं? ततः किं? ततः किम्॥ ७॥

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं? ततः किं? ततः किं? ततः किम्॥ ८॥

गुरोरष्टकं यः पठेत्प्रातःकाले
भवेत् सत्सङ्गी स गणः स धन्यः।
स मूढो न हि प्राज्ञं न लभ्यः
गुरोरङ्घ्रिपद्मे मनो यस्य लग्नम्